श्रवणम्

10.150.2 समानपद
इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग᳚हि ।
मर्ता᳚सस्त्वा समिधान हवामहे मृळी॒काय᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः᳚ । जु॒जु॒षा॒णः । उ॒प॒॑आग᳚हि ।
मर्ता᳚सः । त्वा॒ । स॒म्॑इ॒धा॒न॒ । ह॒वा॒म॒हे॒ । मृ॒ळी॒काय᳚ । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने इममस्माभिः क्रियमाणं पुरोवर्तिनं यज्ञमिदं वचः स्तोत्रं च जुजुषाणः सेवमान उपागहि। उपागच्छ। हे समिधान समिध्यमान मर्तासो मर्ता मनुष्यास्त्वा त्वां हवामहे। आह्वयामहे। मृळीकाय सुखायैतत्संज्ञाय वर्षये त्वामेवाह्वयामहे॥२॥