श्रवणम्

10.150.4
अ॒ग्निर्दे॒वो दे॒वाना᳚मभवत्पु॒रोहि᳚तो॒॑ग्निं म᳚नु॒ष्या॒३॒᳚ ऋष᳚य॒ः समी᳚धिरे ।
अ॒ग्निं म॒हो धन᳚साताव॒हं हु᳚वे मृळी॒कं धन᳚सातये ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । दे॒वः । दे॒वाना᳚म् । अ॒भ॒व॒त् । पु॒रः॑हि᳚तः । अ॒ग्निम् । म॒नु॒ष्याः᳚ । ऋष᳚यः । सम् । ई॒धि॒रे॒ ।
अ॒ग्निम् । म॒हः । धन᳚॑सातौ । अ॒हम् । हु॒वे॒ । मृ॒ळी॒कम् । धन᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो दानादिगुणयुक्तोऽग्निर्देवानामन्येषां पुरोहितः पुरस्ताद्धृतोऽभवत्। यद्वा। पुरोहितवद्धितकार्यभवत्। यत एवमतः कारनात्तमेवाग्निमृषयोऽतीन्द्रियार्थदर्शिनो मनुष्या मानवा यजमानाः समीधिरे। सन्दीपयन्ति। अपि च तमग्निं महो महतो धनसातौ धनस्य सम्भजने निमित्तभूतेऽहं हुवे। आह्वये। विशेषणसापेक्षस्यापि धनशब्दस्य छान्दसः समासः। यद्वा। महतो यागस्य कर्तारमग्निमित्यर्थः। धनस्य सातये धनलाभार्थं मृळीकं सुखमेतत्संज्ञं वा मां सोऽग्निः करोत्वित्यर्थः॥४॥