त्वामु᳚ जा॒तवे᳚दसं वि॒श्ववा᳚रं गृणे धि॒या ।
अग्ने᳚ दे॒वा{4} आ व᳚ह नः प्रि॒यव्र᳚तान्मृळी॒काय᳚ प्रि॒यव्र᳚तान् ॥
अग्ने᳚ दे॒वा{4} आ व᳚ह नः प्रि॒यव्र᳚तान्मृळी॒काय᳚ प्रि॒यव्र᳚तान् ॥
पदपाठः (Word-by-word)
त्वाम् । ऊं॒ इति᳚ । जा॒त॑वे᳚दसम् । वि॒श्व॑वा᳚रम् । गृ॒णे॒ । धि॒या ।
अग्ने᳚ । दे॒वान् । आ । व॒ह॒ । नः॒ । प्रि॒य॑व्र᳚तान् । मृ॒ळी॒काय᳚ । प्रि॒य॑व्र᳚तान् ॥
अग्ने᳚ । दे॒वान् । आ । व॒ह॒ । नः॒ । प्रि॒य॑व्र᳚तान् । मृ॒ळी॒काय᳚ । प्रि॒य॑व्र᳚तान् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने विश्वावारं वश्वैः सर्वैर्वरणीयं जातवेदसं जातानां वेदितारं जातप्रज्ञं जातधनं वा त्वामु त्वामेव धिया स्तुत्या गृणे। स्त्ॐइ। गॄ शब्दे। क्रैयादिकः। प्वादित्वाद्ध्रस्वः। प्रियव्रतान् प्रियाणि व्रतानि कर्माणि येषां तादृशान्देवान्नोऽस्मदर्थमा वह। आनय। अस्मद्यज्ञं प्रापय। मृळीकाय सुखार्थमेतत्संज्ञाय वा मह्यम् प्रियव्रतांस्तानेवावह॥३॥