श्रवणम्

10.150.5
अ॒ग्निरत्रिं᳚ भ॒रद्वा᳚जं॒ गवि᳚ष्ठिरं॒ प्राव᳚न्न॒ः कण्वं᳚ त्र॒सद᳚स्युमाह॒वे ।
अ॒ग्निं वसि᳚ष्ठो हवते पु॒रोहि᳚तो मृळी॒काय᳚ पु॒रोहि᳚तः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । अत्रि᳚म् । भ॒रत्॑वा᳚जम् । गवि᳚ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व᳚म् । त्र॒सद᳚स्युम् । आ॒॑ह॒वे ।
अ॒ग्निम् । वसि᳚ष्ठः । ह॒व॒ते॒ । पु॒रः॑हि᳚तः । मृ॒ळी॒काय᳚ । पु॒रः॑हि᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रिं भरद्वाजं गविष्ठि रम् कण्वं त्रसदस्युं च नोऽस्मानाहवे सङ्ग्रामेऽयमग्निः प्रावत्। प्ररक्षतु। पुरोहितः पुरोहितवद्धितकारी मम पिता वसिष्ठ ऋषिरग्निं हवते। स्तुतिभिराह्वयति। स चाहूतो मृळीकाय सुखार्थमेतत्संज्ञाय वा मह्यं पुरोहितः पुरोधा देवानां पुरः स्थापयिता भवतु॥५॥