श्रवणम्

10.161.1
मु॒ञ्चामि᳚ त्वा ह॒विषा॒ जीव᳚नाय॒ कम᳚ज्ञातय॒क्ष्मादु॒त रा᳚जय॒क्ष्मात् ।
ग्राहि᳚र्ज॒ग्राह॒ यदि᳚ वै॒तदे᳚नं॒ तस्या᳚ इन्द्राग्नी॒ प्र मु᳚मुक्तमेनम् ॥
▶ पदपाठः (Word-by-word)
मु॒ञ्चामि᳚ । त्वा॒ । ह॒विषा᳚ । जीव᳚नाय । कम् । अ॒ज्ञा॒त॒॑य॒क्ष्मात् । उ॒त । रा॒ज॒॑य॒क्ष्मात् ।
ग्राहिः᳚ । ज॒ग्राह᳚ । यदि᳚ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः᳚ । इ॒न्द्रा॒ग्नी॒ इति᳚ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मुञ्चामीति पञ्चर्चं दशमं सूक्तं प्रजापतिपुत्रस्य यक्ष्मनाशनाख्यस्यार्षम्। अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः। अनादेशे त्विन्द्रो देवता। तथा चानुक्रान्तम्। मुञ्चामि प्राजापत्यो यक्ष्मनाशनो राजयक्ष्मघ्नमन्त्यानुष्टुबिति। हृदयरोग प्रमुखस्य व्याधिजातस्योपशमनार्थमनेन सूक्तेन होतव्यम्। सूत्र्यते हि। व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षळाहुतिश्चरुर्मुञ्चामि त्वा हविशा जीवनाय कमित्येतेन। आ. गृ. ३-६-४। इति॥

हे यक्ष्माभिभूत हविषानेन चरुणा साधनेन होमेन त्वा त्वामज्ञातयक्श्मात्। अयमेतत्संज्ञ इत्यप्रज्ञातः शरीरगतो रोगोऽज्ञातयक्षः। तादृशाद्रोगान्मुञ्चामि। विश्लेषयामि। किमर्थम् । जीवनाय कं जीवनार्थम्। इह लोके चिरकालावस्थानार्थमित्यर्थः। कमिति पूरकः। उतापि च राजयक्ष्मात्। यक्ष्माणां राजा यक्ष्मरोगो राजयक्ष्मः। राजदन्तादित्वादुपसर्जनस्य परनिपातः। पा. २-२-३१। तस्मादपि त्वां मुञ्चामि। यदि वा यदि चैतदेतस्मिन्समय एनं व्याधितं पुरुषं ग्राहिर्गृहणशीला ग्रहरूपादेवता जग्राह गृहीतवती तस्या देवतायाः सकाशाद्धे इन्द्राग्नी एनं प्रमुमुक्तम्। प्रमोचयतम्॥१॥