श॒तं जी᳚व श॒रदो॒ वर्ध᳚मानः श॒तं हे᳚म॒न्ताञ्छ॒तमु᳚ वस॒न्तान् ।
श॒तमि᳚न्द्रा॒ग्नी स᳚वि॒ता बृह॒स्पति᳚ः श॒तायु᳚षा ह॒विषे॒मं पुन᳚र्दुः ॥
श॒तमि᳚न्द्रा॒ग्नी स᳚वि॒ता बृह॒स्पति᳚ः श॒तायु᳚षा ह॒विषे॒मं पुन᳚र्दुः ॥
पदपाठः (Word-by-word)
श॒तम् । जी॒व॒ । श॒रदः᳚ । वर्ध᳚मानः । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति᳚ । व॒स॒न्तान् ।
श॒तम् । इ॒न्द्रा॒ग्नी इति᳚ । स॒वि॒ता । बृह॒स्पतिः᳚ । श॒त॑आ᳚युषा । ह॒विषा᳚ । इ॒मम् । पुनः᳚ । दुः॒ ॥
श॒तम् । इ॒न्द्रा॒ग्नी इति᳚ । स॒वि॒ता । बृह॒स्पतिः᳚ । श॒त॑आ᳚युषा । ह॒विषा᳚ । इ॒मम् । पुनः᳚ । दुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे यक्ष्माद्विमुक्त वर्धमानोऽहरहरभिवृद्धिं प्राप्नुवंस्त्वं शतं शरदः शतसंख्याकाञ्शरदृतूञ्जीव। प्राणान्धारय। पूर्ववदत्यन्तसंयोगे द्वितीया। शतं हेमन्तान् हेमन्तर्तूंश्च जीव शतं वसन्तांश्च। उशब्दः समुच्चये। अपि चेन्द्राग्नी इन्द्राश्चाग्निश्च सविता प्रेरको देवस्च बृहस्पतिर्बृहताम् देवानां पालयिता देवश्च शतायुषा शतसंवत्सरपरिमितस्यायुषो हेतुभूतेन हविषा तर्प्यमाणाः सन्त इमं जनं पुनर्दुः। पुनरस्मभ्यं प्रादुः॥४॥