यदि᳚ क्षि॒तायु॒र्यदि᳚ वा॒ परे᳚तो॒ यदि᳚ मृ॒त्योर᳚न्ति॒कं नी᳚त ए॒व ।
तमा ह᳚रामि॒ निरृ᳚तेरु॒पस्था॒दस्पा᳚र्षमेनं श॒तशा᳚रदाय ॥
तमा ह᳚रामि॒ निरृ᳚तेरु॒पस्था॒दस्पा᳚र्षमेनं श॒तशा᳚रदाय ॥
पदपाठः (Word-by-word)
यदि᳚ । क्षि॒त॑आ᳚युः । यदि᳚ । वा॒ । परा᳚॑इतः । यदि᳚ । मृ॒त्योः । अ॒न्ति॒कम् । नि॑इ᳚तः । ए॒व ।
तम् । आ । ह॒रा॒मि॒ । निः॑ऋ᳚तेः । उ॒प॑स्था᳚त् । अस्पा᳚र्षम् । ए॒न॒म् । श॒त॑शा᳚रदाय ॥
तम् । आ । ह॒रा॒मि॒ । निः॑ऋ᳚तेः । उ॒प॑स्था᳚त् । अस्पा᳚र्षम् । ए॒न॒म् । श॒त॑शा᳚रदाय ॥
सायणभाष्यम् (Sayana Commentary)
यदि स रोगग्रस्तः क्षितायुः क्षीणायुर्भवति यदि वा परेतोऽस्माल्लोकात्परागतो भवति यदि च मृत्योर्वैवस्वतस्यान्तिकं निकटं नीतो नितरां प्राप्त एव भवति एवं भूतमपि तं पुरुषं निरृतेः पापदेवताया आयुषः क्षयकारिण्या उपस्थादुपस्थानादा हरामि। आनाययामि। आवर्तयामि। आहृत्य चैनं शतशारदाय शतसंवत्सरजीवनार्थमस्पार्षम्। प्रबलं करोमि। स्पृ प्रीतिबलनयोः॥२॥