श्रवणम्

10.161.5 समानपद
आहा᳚र्षं॒ त्वावि᳚दं त्वा॒ पुन॒रागा᳚ः पुनर्नव ।
सर्वा᳚ङ्ग॒ सर्वं᳚ ते॒ चक्षु॒ः सर्व॒मायु᳚श्च ते॑विदम् ॥
▶ पदपाठः (Word-by-word)
आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि᳚दम् । त्वा॒ । पुनः᳚ । आ । अ॒गाः॒ । पु॒नः॒॑न॒व॒ ।
सर्व᳚॑अङ्ग । सर्व᳚म् । ते॒ । चक्षुः᳚ । सर्व᳚म् । आयुः᳚ । च॒ । ते॒ । अ॒वि॒द॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे व्याधि गृहीत त्वा त्वामाहार्षम्। मृत्योः सकाशादाहृतवानस्मि। अत एव त्वा त्वामविदम्। अलप्सि। हे पुनर्नव पुनरभिनव पुनरागाः। पुनरस्मत्समीपमागच्छ। हे सर्वाङ्ग सर्वैरविकलैरङ्गैरुपेत ते तव सर्वम् चक्षुः। उपलक्षणमेतत्। इन्द्रियवर्गं सकलमविदम्। लब्धवानस्मि। ते तवायुर्जीवनं च सर्वं सम्पूर्णमविदम्॥५॥