श्रवणम्

10.161.3
स॒ह॒स्रा॒क्षेण᳚ श॒तशा᳚रदेन श॒तायु᳚षा ह॒विषाहा᳚र्षमेनम् ।
श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व᳚स्य दुरि॒तस्य᳚ पा॒रम् ॥
▶ पदपाठः (Word-by-word)
स॒ह॒स्र॒॑अ॒क्षेण᳚ । श॒त॑शा᳚रदेन । श॒त॑आ᳚युषा । ह॒विषा᳚ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ।
श॒तम् । यथा᳚ । इ॒मम् । श॒रदः᳚ । नया᳚ति । इन्द्रः᳚ । विश्व᳚स्य । दुः॒॑इ॒तस्य᳚ । पा॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रमिति बहुनाम। सहस्रमक्षीणि चक्षूंषि यस्य हविषः फलत्वेन विद्यन्ते तत्सहस्राक्षम्। बहुव्रीहौ सत्थ्यक्ष्णॊरिति षट् समासान्तः। शरदः सम्बन्धी शारदः संवत्सरः। शतं शारदा यस्य तत्तथोक्तम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। अत एव शतायुषा शतसंवत्सरपरिमितमायुर्जीवनं फलभूतं यस्य तादृशेन हविषा। यद्वा। सहस्राक्ष इन्द्रः । तेन शतशारदेन शरदाम् संवत्सराणां शतस्य दातृत्वेन सम्बन्धिना कर्त्रा शतायुषा हविषा करनभूतेन एनं यक्ष्मगृहीतमाहार्षम्। रोगादनैषम्। यथा येन प्रकारेणेमं पुरुषं शतं शरदः सम्वत्सरान्। अत्यन्तसंयोगे द्वितीया। एतावन्तम् कालमिन्द्रो विश्वस्य सर्वस्य दुरितस्य दुःख्हस्य पारमवसानं दुःखराहित्यं नयति नयेत् तथाहार्षमित्यर्थः॥३॥