श्रवणम्

10.24.1
इन्द्र॒ सोम᳚मि॒मं पि᳚ब॒ मधु᳚मन्तं च॒मू सु॒तम् ।
अ॒स्मे र॒यिं नि धा᳚रय॒ वि वो॒ मदे᳚ सह॒स्रिणं᳚ पुरूवसो॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । सोम᳚म् । इ॒मम् । पि॒ब॒ । मधु᳚॑मन्तम् । च॒मू इति᳚ । सु॒तम् ।
अ॒स्मे इति᳚ । र॒यिम् । नि । धा॒र॒य॒ । वि । वः॒ । मदे᳚ । स॒ह॒स्रिण᳚म् । पु॒रु॒व॒सो॒ इति᳚ पुरु॑वसो । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं इममीदृशं सोमं पिब । कीदृशं मधुमन्तं मधुररसोपेतं चमू चम्वोः अधिष- वणफलकयोः सुतमभिषुतं तदनंतरं पुरुवसो बहुधन हे इंद्र वः तव विमदे विशेषेण सो- मजन्यमदे सति अस्मे अस्मासु रयिं धनं निधारय नितरां स्थापय । कीदृशं सहस्रिणं सहस्रसंख्यायुक्तं प्रभूतमित्यर्थः । त्वया दत्तेन धनेन यस्माद्वयं पुनरपि त्वदर्थं यागं कुर्मः तस्मादस्मासु धनं निधेहीत्यर्थः । अतः कारणाद्विवक्षसे महन्नामैतत् त्वं महान् भवसि ॥ १ ॥