श्रवणम्

10.24.5
विश्वे᳚ दे॒वा अ᳚कृपन्त समी॒च्योर्नि॒ष्पत᳚न्त्योः ।
नास᳚त्यावब्रुवन्दे॒वाः पुन॒रा व᳚हता॒दिति᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः । अ॒कृ॒प॒न्त॒ । स॒म्॑ई॒च्योः । निः॒॑पत᳚न्त्योः ।
नास᳚त्यौ । अ॒ब्रु॒व॒न् । दे॒वाः । पुनः᳚ । आ । व॒ह॒ता॒त् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ह अश्विनौ युवाभ्यां अग्निमंथनकाले प्रेर्यमाणयोः समीच्योः परस्परेण संयुक्तयोरर- ण्योर्निष्पतन्त्योः विस्फुलिंगान्निर्गमयन्त्योः सत्योः विश्वे सर्वे इन्द्रादयोदेवाः अकृपंत युवामस्तुवन् । किंच देवाः नासत्यावश्विनौ युवामब्रुवन् अवोचन् । किमिति पुनरावहता दिति पुनः पुनः ईदृशानि जगत्स्थितिहेतुभूतानि कर्माणि युवामाभिमुख्येन स्थित्वावहतां यद्वा युवाभ्यामुत्पाद्यमानः पुनश्चायमग्निः अस्मदीयानि हवींषि आवहत्विति देवानासत्या- वब्रुवन् ॥ ५ ॥