मधु᳚मन्मे प॒राय᳚णं॒ मधु᳚म॒त्पुन॒राय᳚नम् ।
ता नो᳚ देवा दे॒वत᳚या यु॒वं मधु᳚मतस्कृतम् ॥
ता नो᳚ देवा दे॒वत᳚या यु॒वं मधु᳚मतस्कृतम् ॥
पदपाठः (Word-by-word)
मधु᳚॑मत् । मे॒ । प॒रा॒॑अय᳚नम् । मधु᳚॑मत् । पुनः᳚ । आ॑अय᳚नम् ।
ता । नः॒ । दे॒वा॒ । दे॒वत᳚या । यु॒वम् । मधु᳚॑मतः । कृ॒त॒म् ॥
ता । नः॒ । दे॒वा॒ । दे॒वत᳚या । यु॒वम् । मधु᳚॑मतः । कृ॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ मे मदीयं परायणं गृहात्परागमनं मधुमत् अत्र रसविशेषवाचिना मधु- श्ब्देन तद्गता प्रीतिर्लक्ष्यते युवयोः प्रसादात्प्रीतियुक्तं भवत्वितिशेषः । पुनः आयनं गृहं प्रत्यागमनं मधुमत्प्रीतियुक्तं भवतु । अपिच हे देवा देवौ द्योतमानौ ता तौ युवं युवां नोस्मान् मधुमतः प्रीतियुक्तान् कृतं कुरुतम् । केनेति उच्यते—देवतया देवत्वेन अणिमा- दिदेवतैश्वर्ययोगेनेत्यर्थः ॥ ६ ॥
भद्रमित्येकादशर्चं नवमं सूक्तं तुह्यादिपरिभाषयेदमप्यास्तारपाङ्क्तं सोमदेवताकं ऋषि श्चान्यस्मादितिपरिभाषया प्राजापत्यऎन्द्रोवा विमदोवा वसुक्रोवसुकृद्वा ऋषिः । तथाचानु- क्रान्तम् भद्रमेकादशसौम्यमिति । गतोविनियोगः ।