श्रवणम्

10.24.2
त्वां य॒ज्ञेभि᳚रु॒क्थैरुप᳚ ह॒व्येभि᳚रीमहे ।
शची᳚पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं᳚ नो धेहि॒ वार्यं॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
त्वाम् । य॒ज्ञेभिः᳚ । उ॒क्थैः । उप᳚ । ह॒व्येभिः᳚ । ई॒म॒हे॒ ।
शची᳚॑पते । श॒ची॒ना॒म् । वि । वः॒ । मदे᳚ । श्रेष्ठ᳚म् । नः॒ । धे॒हि॒ । वार्य᳚म् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वयं यज्ञेभिर्यज्ञैः सोमयागादिभिः उक्थैः शस्त्रलक्षणैः स्तोत्रैः हव्येभिर्हव्यैः पु- रोडाशादिभिश्च उपेत्युपसर्गश्रुतेर्योग्यपदाध्याहारः त्वामुपेत्य ईमहे अभिलषितं धनं याचा- महे । अतः हे शचीपते कर्मणां पालक यतः त्वं केषांचित्कर्मणां पालकोभवसि इति न किंतु शचीनां सर्वेषां कर्मणां पालकोभवसीत्यर्थः । एवं याचितस्त्वं नोस्मभ्यं वार्यं वर- णीयं श्रेष्ठं प्रशस्यतमं पश्बादिधनं धेहि देहि । शिष्टं स्पष्टं ॥ २ ॥