यु॒वं श᳚क्रा माया॒विना᳚ समी॒ची निर᳚मन्थतम् ।
वि॒म॒देन॒ यदी᳚ळि॒ता नास᳚त्या नि॒रम᳚न्थतम् ॥
वि॒म॒देन॒ यदी᳚ळि॒ता नास᳚त्या नि॒रम᳚न्थतम् ॥
पदपाठः (Word-by-word)
यु॒वम् । श॒क्रा॒ । मा॒या॒॑विना᳚ । स॒मी॒ची इति᳚ स॒म्॑ई॒ची । निः । अ॒म॒न्थ॒त॒म् ।
वि॒॑म॒देन᳚ । यत् । ई॒ळि॒ता । नास᳚त्या । निः॒॑अम᳚न्थतम् ॥
वि॒॑म॒देन᳚ । यत् । ई॒ळि॒ता । नास᳚त्या । निः॒॑अम᳚न्थतम् ॥
सायणभाष्यम् (Sayana Commentary)
हे शक्रा शक्रौ शत्रुवधादिकर्मसु समर्थौ हे अश्विनौ मायाविना मायाविनौ प्रज्ञावंतौ शत्रुवंचनकुशलौ वा युवं युवां समीची परस्परं संगतौ निरमन्थतं अग्निं निरमश्नीतम् । अ- श्विनावध्वर्यूइतिब्राह्मणोक्तत्वात् । अग्निमंथनमप्यश्विनोरुपपन्नमिति । कदाश्विनौ निर्मथित- वंतौ उच्यते—यद्यदा नासत्या नासत्यौ युवां विमदेन मया ईळिता ईळितौ स्तुतौ निर मंथतं निरमश्नीतं तदानीं युवां परस्परं संगतौ निर्मथितवन्तौ स्थइत्यर्थः ॥ ४ ॥