श्रवणम्

1.123.1
पृ॒थू रथो॒ दक्षि᳚णाया अयो॒ज्यैनं᳚ दे॒वासो᳚ अ॒मृता᳚सो अस्थुः ।
कृ॒ष्णादुद᳚स्थाद॒र्या॒३॒᳚ विहा᳚या॒श्चिकि᳚त्सन्ती॒ मानु᳚षाय॒ क्षया᳚य ॥
▶ पदपाठः (Word-by-word)
पृ॒थुः । रथः᳚ । दक्षि᳚णायाः । अ॒यो॒जि॒ । आ । ए॒न॒म् । दे॒वासः᳚ । अ॒मृता᳚सः । अ॒स्थुः॒ ।
कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या᳚ । वि॑हा᳚याः । चिकि᳚त्सन्ती । मानु᳚षाय । क्षया᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

दक्षिणायाः प्रवृद्धायाः स्वव्यापारकुशलायाः उषोदेवतायाः पृथुर्विस्तीर्णोरथः अयोजि अश्वैर्युक्तः सन्नद्धोभूत् अत्रयद्यपिदेवताविशेषोनश्रुतः तथाप्युषस्यत्वादुषसइतिगम्यते एनंसन्नद्धं रथं अमृतासः- अमरणधर्माणोदेवासोदेवनशीलाहविर्भाजोदेवाः आस्थुः आस्थितवन्तः देवयजनंगन्तुंआरूढाइत्यर्थः अनन्तरंसोषाः कृष्णात् निकृष्टवर्णान्नैशात्तमसः सकाशात् उदस्थात् उत्थिताभूत् कृष्णंकृष्यतेर्निकृष्टो- वर्णइतियास्कः । कीदृशीसा अर्याअरणीयापूजनीया विहायाः विविधगमनयुक्तामहतीवा विहाया- इतिमहन्नाम विहायाः यह्वइतितन्नामसुपाठात् मानुषायक्षयाम मनुष्याणांनिवासायचिकित्सन्ती अन्धकारनिवारणरूपांचिकित्सांकुर्वतीतमोनिवारयन्तीत्यर्थः ॥ १ ॥