श्रवणम्

1.123.13
ऋ॒तस्य᳚ र॒श्मिम᳚नु॒यच्छ᳚माना भ॒द्रम्भ᳚द्रं॒ क्रतु᳚म॒स्मासु᳚ धेहि ।
उषो᳚ नो अ॒द्य सु॒हवा॒ व्यु᳚च्छा॒स्मासु॒ रायो᳚ म॒घव᳚त्सु च स्युः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । र॒श्मिम् । अ॒नु॒॑यच्छ᳚माना । भ॒द्रम्॑भ᳚द्रम् । क्रतु᳚म् । अ॒स्मासु᳚ । धे॒हि॒ ।
उषः᳚ । नः॒ । अ॒द्य । सु॒॑हवा᳚ । वि । उ॒च्छ॒ । अ॒स्मासु᳚ । रायः᳚ । म॒घव᳚त्॑सु । च॒ । स्यु॒रिति᳚ स्युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउषः ऋतस्य सत्यभूतस्यादित्यस्य रश्मिंरश्मीन्अनुयच्छमाना आनुकूल्येनप्रवर्तमानात्वं भद्रं भद्रं क्रतुं तत्तत्कल्याणंस्तुत्यंवा लौकिकंवैदिकंकर्म तद्विषयांप्रज्ञांवा धेहि स्थापय हेउषः अद्येदानीं नोऽस्मदर्थं सुहवासुष्ठुआहुतासती व्युच्छ तमोविवासय प्रकाशंकुर्वित्यर्थः किमर्थमितितदुच्यते—मघ- वत्सु मघमितिधननाम हविर्लक्षणधनयुक्तेष्वस्मासुयजमानेषु रायश्चस्युः बहुविधानिधनानिसंभव- न्त्वितिपूर्वोक्तेनक्रतुनासहसमुच्चयार्थश्चशब्दः ॥ १३ ॥

उषाउच्छन्तीतित्रयोदशर्चंचतुर्थंसूक्तंदैर्घतमसः कक्षीवतआर्पम् त्रैष्टुभमुषस्यं उषाउच्छन्तीत्यनु- क्रान्तं विनियोगस्तु पूर्वसूक्तेएवोक्तः ।