प॒रि॒क्षितो॒स्तमो᳚ अ॒न्या गुहा᳚क॒रद्यौ᳚दु॒षाः शोशु᳚चता॒ रथे᳚न ॥
पदपाठः (Word-by-word)
प॒रि॒॑क्षितोः᳚ । तमः᳚ । अ॒न्या । गुहा᳚ । अ॒कः॒ । अद्यौ᳚त् । उ॒षाः । शोशु᳚चता । रथे᳚न ॥
सायणभाष्यम् (Sayana Commentary)
इदानीमहोरात्रस्तुतिद्वारा उषाःस्तूयते विषुरूपे वक्ष्यमाणप्रकारेणनानारूपे अहनी अहश्चरात्रि- श्चोभेसंचरेते समित्येकीभावे सहैवाव्यवधानेनचरतः अत्राह्नः साहचर्यात्तत्प्रतियोगित्वाच्चरात्रिर- प्यहरित्युच्यते उत्तरत्रमन्त्रान्तरे अयमेवार्थःस्पष्टआम्नातः—अहश्चकृष्णमहरर्जुनंचविवर्तेतेरजसीवे- द्याभिरिति । तयोर्मध्येअन्यद्रात्रिरूपमहरपैति अपगच्छति प्रतिलोमगच्छतिवा अपेत्येतस्यप्रातिलो- म्यमितियास्कः । अन्यच्चदिवसाख्यमहः अभ्येति आभिमुख्येनगच्छति अभीत्याभिमुख्यमितियास्कः । रात्र्यांप्रतिनिवृत्तायां अहरभिमुखमागच्छतीत्यर्थः विषुरूपेसंचरेते इतियदुक्तं तदेवस्पष्टीक्रियते— परिक्षितोः पर्यायेणनिवसतोः परिक्षपयतोर्वाप्राणिनां अहः स्वतीतेषु आयुषः क्षयात्परिक्षपणंप्रसि- द्धम् तयोर्मध्येअन्यारात्रिस्तमस्तमोरूपा गुहा पदार्थानां गूहनंअकः करोति अन्याअहरेकदेशभूतावो- षाः शोशुचताभृशंदीप्तेनरथेनअद्यौत् द्योततेप्रकाशते प्रकाशयतिवासर्वंरात्रिस्तमोरूपत्वात्सर्वंजगदा- वृणोति उषास्तु सर्वान्भावान्प्रकाशयतीत्युषसः स्तुतिः ॥ ७ ॥