गृ॒हंगृ᳚हमह॒ना या॒त्यच्छा᳚ दि॒वेदि᳚वे॒ अधि॒ नामा॒ दधा᳚ना ।
सिषा᳚सन्ती द्योत॒ना शश्व॒दागा॒दग्र᳚मग्र॒मिद्भ᳚जते॒ वसू᳚नाम् ॥
सिषा᳚सन्ती द्योत॒ना शश्व॒दागा॒दग्र᳚मग्र॒मिद्भ᳚जते॒ वसू᳚नाम् ॥
पदपाठः (Word-by-word)
गृ॒हम्॑गृ᳚हम् । अ॒ह॒ना । या॒ति॒ । अच्छ᳚ । दि॒वे॑दि᳚वे । अधि᳚ । नाम᳚ । दधा᳚ना ।
सिसा᳚सन्ती । द्यो॒त॒ना । शश्व᳚त् । आ । अ॒गा॒त् । अग्र᳚म्॑अग्रम् । इत् । भ॒ज॒ते॒ । वसू᳚नाम् ॥
सिसा᳚सन्ती । द्यो॒त॒ना । शश्व᳚त् । आ । अ॒गा॒त् । अग्र᳚म्॑अग्रम् । इत् । भ॒ज॒ते॒ । वसू᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
अहनाउषोनामैतत् अहनाद्योतनेतितन्नामसुपाठात् सादेवी दिवेदिवे प्रत्यहं दिवेदिवेद्यविद्यवी- त्यहर्नामसुपाठात् गृहंगृहंतद्यज्ञगृहं अच्छआभिमुख्येनयातिगच्छति कीदृशी अधिअधिकंनामनमनं प्रह्वत्वं प्रतिहतमुद्योगंप्रकाशनरूपंदधाना धारयन्ती यद्वा अधिदधाना अधिकंधारयन्ती किञ्च सि- षासन्ती संभक्तुमिच्छन्ती द्योतना कृत्स्नंजगत् द्योतनशीला शश्वत् प्रतिदिनंआगादागच्छति पूर्वं- यातीत्युक्तत्वात्पुनरागादितिवचनमावश्यकत्वद्योतनार्थम् आगत्यचवसूनांधनानां हविर्लक्षणानां अग्रमग्रमित् तत्तच्छ्रेष्ठभागंभजते सेवते स्वीकरोतीत्यर्थः ॥ ४ ॥