श्रवणम्

1.123.9 समानपद
जा॒न॒त्यह्न᳚ः प्रथ॒मस्य॒ नाम᳚ शु॒क्रा कृ॒ष्णाद᳚जनिष्ट श्विती॒ची ।
ऋ॒तस्य॒ योषा॒ न मि᳚नाति॒ धामाह᳚रहर्निष्कृ॒तमा॒चर᳚न्ती ॥
▶ पदपाठः (Word-by-word)
जा॒न॒ती । अह्नः᳚ । प्र॒थ॒मस्य᳚ । नाम᳚ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची ।
ऋ॒तस्य᳚ । योषा᳚ । न । मि॒ना॒ति॒ । धाम᳚ । अहः᳚॑अहः । निः॒॑कृ॒तम् । आ॒॑चर᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

उषाः प्रथमस्यमुख्यस्यप्रथमानस्य वाह्नोदिवसस्यनामनमनमागमनंजानतीअवगच्छन्तीप्राणि- नांप्रज्ञापयन्तीत्यर्थःसोषाःशुक्रास्वतोदीप्ता अतएव श्वितीचीश्वैत्यंगच्छन्ती प्रकाशं प्राप्नुवन्ती कृष्णा- न्निकृष्टात्तमसःसकाशादजनिष्ट प्रादुर्भवति यद्यपितमसःसकाशान्नोत्पद्यते तथापि तदनन्तरभावि- त्वात्ततौत्पद्यतेइत्युपचर्यते उत्पन्नासा ऋतस्य सत्यभूतस्यादित्यस्यधाम तेजोयुक्तंस्थानं योषामिश्र- यन्तीनमिनातिनहिनस्ति तदीयंतेजोनपराभवति अपितुअहरहः सर्वेष्वहः सुनिष्कृतमाचरन्तीअलं- कारशोभांकुर्वती यद्वा ऋतस्य सत्यभूतस्ययज्ञस्यधामदेवयजनाख्यं स्थानं योषामिश्रणशीलासती नमिनाति नहिनस्ति किंतु अहरहः सर्वेषु यागदिवसेषुनिष्कृतं हविरादीनांप्रकाशनरूपमलंकारं आचरन्तीकुर्वती तादृश्युषा अजनिष्टेतिपूर्वत्रान्वयः ॥ ९ ॥