श्रवणम्

1.123.2
पूर्वा॒ विश्व᳚स्मा॒द्भुव᳚नादबोधि॒ जय᳚न्ती॒ वाजं᳚ बृह॒ती सनु᳚त्री ।
उ॒च्चा व्य᳚ख्यद्युव॒तिः पु᳚न॒र्भूरोषा अ᳚गन्प्रथ॒मा पू॒र्वहू᳚तौ ॥
▶ पदपाठः (Word-by-word)
पूर्वा᳚ । विश्व᳚स्मात् । भुव᳚नात् । अ॒बो॒धि॒ । जय᳚न्ती । वाज᳚म् । बृ॒ह॒ती । सनु᳚त्री ।
उ॒च्चा । वि । अ॒ख्य॒त् । यु॒व॒तिः । पु॒नः॒॑भूः । आ । उ॒षाः । अ॒ग॒न् । प्र॒थ॒मा । पू॒र्व॑हू᳚तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वस्मद्भुवनात्सर्वस्मात्सुप्ताद्भूतजातात्पूर्वाप्रथमासतीयमुषाः अबोधि बुद्धाभूत् उषः काल- मवगत्यहिपश्चात्सर्वेप्राणिनः प्रतिबुद्ध्यन्ते कीदृशीसा वाजंगमनशीलं प्रकाशंनिरवर्त्यंधकारंजयन्ती- पराभवंकुर्वती यद्वा वाजशब्दोऽन्ननामसुपठितत्वादन्ननाम अन्नंवैवाजइतिश्रुतेश्च । यजमानार्थंअन्नंसं- पादयन्तीबृहती महती सनुत्री सर्वंजगत्संभजन्ती दात्रीवाप्रकाशस्य किंच सोषाउच्चाउच्चैःउन्नतासतीव्यख्यत् विचष्टेसर्वंजगत्पश्यतीत्यर्थः कीदृशीसायुवतिः मिश्रणशीला नित्ययौवनावा पुनर्भूः पुनःपुनर्भवनशीलाप्रतिदिनंवर्तमानत्वात् सोषाःपूर्वहूतौसत्यांप्रथमामुख्याप्र कृष्टासती आगन् देवयज-नदेशंप्रत्यागच्छति प्रथमइतिमुख्यनाम प्रतमोभवतीतियास्कः । इतरदेवेभ्यः पूर्वमाहूतासती शीघ्रमेवागच्छतीत्यर्थः ॥ २ ॥