सं॒स्मय᳚माना युव॒तिः पु॒रस्ता᳚दा॒विर्वक्षां᳚सि कृणुषे विभा॒ती ॥
पदपाठः (Word-by-word)
स॒म्॑स्मय᳚माना । यु॒व॒तिः । पु॒रस्ता᳚त् । आ॒विः । वक्षां᳚सि । कृ॒णु॒षे॒ । वि॒॑भा॒ती ॥
सायणभाष्यम् (Sayana Commentary)
तन्वाशरीरेणशाशदाना शाशाद्यमानास्पष्टतांप्राप्नुवती शाशदानःशाशाद्यमानइतियास्कः । कन्येवकमनीयाकन्यकेव कन्याकमनीयाभवतिक्वेयंनेतव्येतिवेतियास्कः । सायथाजनान्तिकेवि- वसनासंचरति तथा हेउषः त्वं कन्याकमनीयाप्रगल्भासतीतन्वाशरीरेणशाशदानास्पष्टतांगच्छन्ती द्रुश्यसे पश्चात्प्रगल्भासती हेदेविदेवनशीले इयक्षमाणं यष्टुमिच्छन्तं अभिमतंदातुमिच्छन्तं वा- देवंद्योतनस्वभावंसूर्यरूपंप्रियंएषिगच्छसि ततः पश्चाद्युवतिर्यौवनोपेतासतीपुरस्तात्पत्युः सूर्यस्य पुरतः संस्मयमानासमीषद्धसन्ती हास्यंकुर्वतीविभातीअत्यन्तंभासमाना वक्षांसिवक्षसोपलक्षि- तानवयवानाविष्कृणुषेप्रकटीकरोषि यद्वा युवतिरितिलुप्तोपमा यथालोकेप्रगल्भायोषित् पुरस्ता- त्प्रियतमस्यपुरतः संस्मयमानादन्तप्रदर्शनाय ईषद्धसनंकुर्वती वक्षांसिवक्षसोपलक्षितानिगोप्या- निबाहुमूलस्तनादीनि आविष्करोति तथात्वमपीत्यर्थः यद्वा पुरस्तात्पूर्वस्यांदिशि संस्मयमाना स्मितोपमप्रकाशंकुर्वती युवतिः सर्वेषुभावेषुमिश्रणशीलावक्षांसिवक्षइतिरूपनाम दन्तस्थानीया- निनीलपीतादीनिरूपाण्याविष्करोषि ॥ १० ॥