श्रवणम्

1.123.6
उदी᳚रतां सू॒नृता॒ उत्पुरं᳚धी॒रुद॒ग्नयः᳚ शुशुचा॒नासो᳚ अस्थुः ।
स्पा॒र्हा वसू᳚नि॒ तम॒साप᳚गूळ्हा॒विष्कृ᳚ण्वन्त्यु॒षसो᳚ विभा॒तीः ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒र॒ता॒म् । सू॒नृताः᳚ । उत् । पुर᳚म्॑धीः । उत् । अ॒ग्नयः᳚ । शु॒शु॒चा॒नासः᳚ । अ॒स्थुः॒ ।
स्पा॒र्हा । वसू᳚नि । तम᳚सा । अप᳚॑गूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः᳚ । वि॒॑भा॒तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूनृताः प्रियसत्यात्मिकावाचः उदीरतां उद्गच्छन्तु हेऋत्विजः उत्कृष्टंयथाभवतितथा स्तोत्रं प्रवर्तयध्वं तथापुरन्धीः पुरन्धयः पुरंशरीरंयासुधीयतेयाभिर्वाताः पुरन्धयःप्रज्ञाः प्रयोगविषयाःता- अप्युन्मिषन्तु प्रज्ञोपलक्षितानिकर्माणिप्रवर्तन्तामित्यर्थः यद्यपिप्राणवायुनाशरीरंधार्यते तथापि योवैप्राणः साप्रज्ञायावाप्रज्ञासप्राणइतिश्रुतेः । प्राणप्रज्ञयोरेकत्वात्प्रज्ञायाः शरीरधारणमविरुद्धम् तथा अग्नयः आहवनीयाद्याः शुशुचानासः अत्यन्तंदीप्यमानाः उदस्थुः उत्तिष्ठन्तु प्रज्वलयन्त्वित्यर्थः किमर्थमेवमितितदुच्यते यतोविभातीः विविधंभासनानाः उषसः उषोदेवतास्तमसापगूह्ळाअन्ध- कारेणात्यन्तंगोपितानि स्पर्हा स्पृहणीयानि वस्तूनिवासयोग्यानि यज्ञसाधनभूतहविरादीन आवि- ष्कृण्वन्ति यथावस्तुप्रकटीकुर्वन्ति तस्मात्स्तोत्रादिकंकुर्वन्त्वित्यर्थः ॥ ६ ॥