श्रवणम्

1.123.3
यद॒द्य भा॒गं वि॒भजा᳚सि॒ नृभ्य॒ उषो᳚ देवि मर्त्य॒त्रा सु᳚जाते ।
दे॒वो नो॒ अत्र᳚ सवि॒ता दमू᳚ना॒ अना᳚गसो वोचति॒ सूर्या᳚य ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । भा॒गम् । वि॒॑भजा᳚सि । नृ॑भ्यः᳚ । उषः᳚ । दे॒वि॒ । म॒र्त्य॒॑त्रा । सु॒॑जा॒ते॒ ।
दे॒वः । नः॒ । अत्र᳚ । स॒वि॒ता । दमू᳚नाः । अना᳚गसः । वो॒च॒ति॒ । सूर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुजाते शोभनजनने देविदेवनशीले हेउषःउषःकालाभिमानिदेवते मर्त्यत्रा मनुष्याणां पालयित्रि त्वंअद्यास्मिन्काले नृभ्योमनुष्येभ्योयत् यंभागंभजनीयं स्वकीयप्रकाशस्यांशं विभजासि विभज्य ददासि यद्वा मर्त्यत्रा मर्त्येषुमध्ये नृभ्योनेतृभ्योमनुष्येभ्योयजमानेभ्योदेवानांभागंविभज्यददासि उषसिप्रवृत्तायांहविषोदीयमानत्वादुषसोदातृत्वमुपचर्यते अत्रास्मिन्भागविषयेदमूनाः यजमाने- भ्योऽभिमतफलदानमनाः दमूनादममनावादानमनावादान्तमनावेतिनिरुक्तवचनम् । तादृशः स- विताप्रेरकोदेवःनोऽस्माननागसोवोचति अपापान् यागयोग्यान् ब्रवीतु अनुगृह्णात्वित्यर्थःकिमर्थं- सूर्यायअस्मद्यागदेशंप्रतिसूर्यस्यागमनार्थम् ॥ ३ ॥