अश्वा᳚वती॒र्गोम᳚तीर्वि॒श्ववा᳚रा॒ यत᳚माना र॒श्मिभि॒ः सूर्य᳚स्य ।
परा᳚ च॒ यन्ति॒ पुन॒रा च᳚ यन्ति भ॒द्रा नाम॒ वह᳚माना उ॒षासः᳚ ॥
परा᳚ च॒ यन्ति॒ पुन॒रा च᳚ यन्ति भ॒द्रा नाम॒ वह᳚माना उ॒षासः᳚ ॥
पदपाठः (Word-by-word)
अश्व᳚॑वतीः । गो॑म᳚तीः । वि॒श्व॑वा᳚राः । यत᳚मानाः । र॒श्मि॑भिः᳚ । सूर्य᳚स्य ।
परा᳚ । च॒ । यन्ति᳚ । पुनः᳚ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम᳚ । वह᳚मानाः । उ॒षसः᳚ ॥
परा᳚ । च॒ । यन्ति᳚ । पुनः᳚ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम᳚ । वह᳚मानाः । उ॒षसः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अश्वावतीः अश्ववत्यः बहुभिरश्वैस्तद्वत्यः तथागोमतीर्बहुभिर्गोभिस्तद्वत्यः विश्ववाराः विश्वेवा- रावरणीयाः कालायासां तास्तथोक्ताः सार्वकालीनाइत्यर्थः यद्वा विश्वेवरितारोयासुताः विश्ववाराः भवन्ति विश्वैर्वरणीयाइत्यर्थः सूर्यस्यरश्मिभिर्यतमानाः सूर्यरश्मिभिः साकंतमोनिवारणायप्रयत्नंकु- र्वाणाः यद्यपिसूर्यरश्मयएवजगत्प्रकाशनायप्रभवन्ति तथापिसूर्योदयात्पूर्वं तमोनिवारणस्यापेक्षित- त्वात्तासामपिप्रयत्नमविरुद्धम् रश्मिदेवताअपि प्रकाशिकाइत्यर्थः किंच भद्रा भद्रंकल्याणंस्तुत्यंवाना- मनमनं सर्वजनानुकूल्यंवहमानाः धारयमाणाः उषासः उषोदेवताः पराचयन्ति परायन्तिच तथा पुनराचयन्तिपुनरायन्तिच परस्परापेक्षयोभयत्रचशब्दः याएवातीतेषु दिनेषुगतास्ताएवपुनः पुनर्दि- नान्तरेष्वप्यायन्तिजगन्निर्वाहाय प्रतिदिनंगतागतंकुर्वन्तीत्यर्थः ॥ १२ ॥