श्रवणम्

1.84.11
ता अ᳚स्य पृशना॒युव॒ः सोमं᳚ श्रीणन्ति॒ पृश्न᳚यः ।
प्रि॒या इन्द्र᳚स्य धे॒नवो॒ वज्रं᳚ हिन्वन्ति॒ साय᳚कं॒ वस्वी॒रनु᳚ स्व॒राज्य᳚म् ॥
▶ पदपाठः (Word-by-word)
ताः । अ॒स्य॒ । पृ॒श॒न॒॑युवः᳚ । सोम᳚म् । श्री॒ण॒न्ति॒ । पृश्न᳚यः ।
प्रि॒याः । इन्द्र᳚स्य । धे॒नवः᳚ । वज्र᳚म् । हि॒न्व॒न्ति॒ । साय᳚कम् । वस्वीः᳚ । अनु᳚ । स्व॒॑राज्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ताः पूर्वोक्ता अस्येंद्रस्य पृशनायुवः स्पर्शनकामाः पृश्नयो नानावर्ण गाव इंद्रेण पातव्यं सोमं पयसा श्रीणंति । मिश्रीकुर्वंति । इंद्रस्य प्रियाः प्रीतहेतुभूतास्ता धेनवः सायकं शत्रूणामंतकारकं वज्रमायुधं हिन्वंति शत्रुषु प्रेरयंति । इंद्रो यथा शत्रुषु वज्रं प्रेरयति तथेंद्रस्य मदमुत्पादयंतीत्यर्थः । अन्यत्पूर्ववत् ॥ हिन्वंति । हिविः प्रीणनार्थः । इदित्वान्नुम् । सायकं षो अंतकर्मणि । ण्वुल्यात्वे युगागमः ॥ ११ ॥