श्रवणम्

1.84.3
आ ति᳚ष्ठ वृत्रह॒न्रथं᳚ यु॒क्ता ते॒ ब्रह्म᳚णा॒ हरी᳚ ।
अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा᳚ कृणोतु व॒ग्नुना᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ति॒ष्ठ॒ । वृ॒त्र॒॑ह॒न् । रथ᳚म् । यु॒क्ता । ते॒ । ब्रह्म᳚णा । हरी॒ इति᳚ ।
अ॒र्वा॒चीन᳚म् । सु । ते॒ । मनः᳚ । ग्रावा᳚ । कृ॒णो॒तु॒ । व॒ग्नुना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् शत्रूणां हंतरिंद्र रथमा तिष्ठ । आरोह । यस्मात्ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्रलक्षणेन मंत्रेण युक्ता रथेऽस्माभिर्योजितौ तस्मात्त्वं रथमातिष्ठ । ते मनस्त्वदीयं मनश्च ग्रावाभिषवार्थं प्रवृत्तः पाषाणो वग्नुना वचनीयेनाभिषवशब्देनार्वाचीनमस्मदभिमुखं सु कृणोतु । सुषु करोतु ॥ युक्ता । सुपां सुलुगित्याकारः । वग्नुना । वचेर्गश्च (उ ३-३३) इति नुप्रत्ययो गकारश्चांतादेशः ॥ ३ ॥