श्रवणम्

1.84.20
मा ते॒ राधां᳚सि॒ मा त᳚ ऊ॒तयो᳚ वसो॒॑स्मान्कदा᳚ च॒ना द᳚भन् ।
विश्वा᳚ च न उपमिमी॒हि मा᳚नुष॒ वसू᳚नि चर्ष॒णिभ्य॒ आ ॥
▶ पदपाठः (Word-by-word)
मा । ते॒ । राधां᳚सि । मा । ते॒ । ऊ॒तयः᳚ । व॒सो॒ इति᳚ । अ॒स्मान् । कदा᳚ । च॒न । द॒भ॒न् ।
विश्वा᳚ । च॒ । नः॒ । उ॒प॒॑मि॒मी॒हि । मा॒नु॒ष॒ । वसू᳚नि । च॒र्ष॒णि॑भ्यः᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो निवासयतरिंद्र ते तव संबंधीनि राध्नोत्येभिरिति राधांसि भूतान्यस्मान्कदा चन कदाचिदपि मा दभन् । मा विनाशयंतु । तथोतयो गंतारः । यद्वा । धूतय इत्यत्र वर्णलोपः । धूतयः कंपयितारस्ते त्वदीया मरुतश्च मा दभन् । हे मानुष मनुष्यहितेंद्र चर्षणिभ्यो मंत्रद्रष्टृभ्यो नोस्मभ्यं विश्वा विश्वानि सर्वाणि वसूनि धनानि च आ उपमिमीहि । सर्वत आहृत्यास्मत्समीपे कुरु । सर्वत्र वर्तमानं धनमस्मभ्यं प्रयच्छेत्यर्थः ॥ कदा । किंशब्दात्सर्वैकान्यकिंयत्तदः काले देति दाप्रत्ययः । किमः क इति कादेशः । व्यत्ययेनाद्युदात्तत्वम् । दभन् । दन्भु दंभे । लोडर्थे छांदसे लङि बहुलं छंदसीति विकरणस्य लुक् । न माङ्योग इत्यडभावः । मिमीहि । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । भृञामिदित्यभ्यासस्येत्वम् । हेर्ङित्त्वात् घुमास्थेतीत्वं ॥ २० ॥