श्रवणम्

1.84.14
इ॒च्छन्नश्व᳚स्य॒ यच्छिर॒ः पर्व᳚ते॒ष्वप᳚श्रितम् ।
तद्वि᳚दच्छर्य॒णाव᳚ति ॥
▶ पदपाठः (Word-by-word)
इ॒च्छन् । अश्व᳚स्य । यत् । शिरः᳚ । पर्व᳚तेषु । अप᳚॑श्रितम् ।
तत् । वि॒द॒त् । श॒र्य॒णा॑व᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वतेषु पर्ववत्सु गिरिष्वपश्रितमपगत्य स्थितमश्वस्याश्वसंबंधि दधीचो यच्छिर इच्छन्निंद्रो वर्तते शर्यणावत्येतत्संज्ञे सरसि तच्छिरो विदत् । अज्ञासीत् । ज्ञात्वा तदाहृत्य तदीयैरस्थिभिर्वृत्राणि जघानेतिपूर्वस्यामृचि संबंधः ॥ इच्छन् । इषु इच्छायाम् । तुदादित्वाच्छप्रत्ययः । विदत् । वेत्तेर्लुङि व्यत्ययेन च्लेरङादेशः । शर्यणावति । शर्यणा नाम देशाः । तेषामदूरभवं सरः शर्यणावत् । मध्वादिषु शर्यणशब्दस्य पाठान्मध्वादिभ्यश्च (पा ४-२-८६) इति चातुर्थिको मतुप् । संज्ञायामिति मतुपो वत्वम् । मतौ बह्वचोऽनजिरादीनाम् (पा ६-३-११९) इति दीर्घः ॥ १४ ॥