श्रवणम्

1.84.4 समानपद
इ॒ममि᳚न्द्र सु॒तं पि᳚ब॒ ज्येष्ठ॒मम᳚र्त्यं॒ मद᳚म् ।
शु॒क्रस्य᳚ त्वा॒भ्य᳚क्षर॒न्धारा᳚ ऋ॒तस्य॒ साद᳚ने ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ । ज्येष्ठ᳚म् । अम᳚र्त्यम् । मद᳚म् ।
शु॒क्रस्य᳚ । त्वा॒ । अ॒भि । अ॒क्ष॒र॒न् । धाराः᳚ । ऋ॒तस्य᳚ । साद᳚ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र सुतमभिषुतमिमं सोमं पिब । कीदृशम् । ज्येष्ठ मतिशयेन प्रशस्यं मदं मदकरं अमर्त्यममारकम् । सोमपानजन्यो मदो मदांतरवन्मारको न भवतीत्यर्थः । तथा ऋतस्य यज्ञस्य संबंधिनि सदने गृहे वर्तमानाः शुक्रस्य दीप्तस्यास्य सोमस्य धारस्त्वामभ्यक्षरन् । आभिमुख्येन संचलंति । त्वां प्राप्नुवंति । स्वयमेवागच्छंतीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दादिष्ठनि ज्य च (पा ५-३-६१) इति ज्यादेशः । अक्षरन् । क्षर संचलने । छांदसो लङ् ॥ ४ ॥