यश्चि॒द्धि त्वा᳚ ब॒हुभ्य॒ आ सु॒तावा{4}᳚ आ॒विवा᳚सति ।
उ॒ग्रं तत्प᳚त्यते॒ शव॒ इन्द्रो᳚ अ॒ङ्ग ॥
उ॒ग्रं तत्प᳚त्यते॒ शव॒ इन्द्रो᳚ अ॒ङ्ग ॥
पदपाठः (Word-by-word)
यः । चि॒त् । हि । त्वा॒ । ब॒हु॑भ्यः᳚ । आ । सु॒त॑वा᳚न् । आ॒॑विवा᳚सति ।
उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः᳚ । इन्द्रः᳚ । अ॒ङ्ग ॥
उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः᳚ । इन्द्रः᳚ । अ॒ङ्ग ॥
सायणभाष्यम् (Sayana Commentary)
बहुभ्यो मनुष्येभ्यः सकाशाद्यश्चिद्धि य एव खलु यजमानः सुतावान् अभिषुतसोमयुक्तः सन् हे इंद्र त्वा त्वामाविवासति परिचरति । विवासतिः परिचरणकर्मा । तत्तस्मै यजमानाय यदुग्रमुद्गूर्णं शवो बलमिंद्रोऽंग क्षिप्र पत्यते । पातयति । प्रापयति ॥ तत् । सुपां सुलुगिति चतुर्थ्या लुक् । पत्यते । पत्लृ गतौ । अस्मादंतर्भावितम्यर्थाद्व्यत्ययेन श्यन् ॥ ९ ॥