इन्द्रा᳚य नू॒नम᳚र्चतो॒क्थानि᳚ च ब्रवीतन ।
सु॒ता अ᳚मत्सु॒रिन्द᳚वो॒ ज्येष्ठं᳚ नमस्यता॒ सहः᳚ ॥
सु॒ता अ᳚मत्सु॒रिन्द᳚वो॒ ज्येष्ठं᳚ नमस्यता॒ सहः᳚ ॥
पदपाठः (Word-by-word)
इन्द्रा᳚य । नू॒नम् । अ॒र्च॒त॒ । उ॒क्थानि᳚ । च॒ । ब्र॒वी॒त॒न॒ ।
सु॒ताः । अ॒म॒त्सुः॒ । इन्द᳚वः । ज्येष्ठ᳚म् । न॒म॒स्य॒त॒ । सहः᳚ ॥
सु॒ताः । अ॒म॒त्सुः॒ । इन्द᳚वः । ज्येष्ठ᳚म् । न॒म॒स्य॒त॒ । सहः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋत्विज इंद्राय नूनं क्षिप्रमर्चत । पूजनं कुरुत । एतदेव स्पष्टी क्रियते । उक्थास्यप्रगीतमंत्रसाध्यानि स्तोत्राणि च ब्रवीतन । ब्रूत । सुता अभषुता इंदवः सोमाश्चामत्सुः । आगतमेनमिंद्र मश्चं कुर्वंतु । अनंतरं ज्येष्ठं प्रशस्यतमं सहः सहस्विनं बलवंतं तमिंद्रं नमस्यत । नमस्कुरुत ॥ ब्रवीतन । ब्रवीतेर्लोट शस्तसप्तनथनाश्चेति तनबादेशः । अमत्सुः । मदी हर्षे छांदसः प्रार्थनायां लुङ् । आगमानुताननस्यानित्यदिदभावः । नमस्यत । नमोवरिवश्चित्रङ इति क्यङ् । सहः लुगकारेकाररेभाश्च वक्तव्याः । पा ४-४-१२८-२ । इति मत्वर्थीयस्य लुक् ॥ ५ ॥