ता अ᳚स्य॒ नम᳚सा॒ सहः᳚ सप॒र्यन्ति॒ प्रचे᳚तसः ।
व्र॒तान्य᳚स्य सश्चिरे पु॒रूणि᳚ पू॒र्वचि᳚त्तये॒ वस्वी॒रनु᳚ स्व॒राज्य᳚म् ॥
व्र॒तान्य᳚स्य सश्चिरे पु॒रूणि᳚ पू॒र्वचि᳚त्तये॒ वस्वी॒रनु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
ताः । अ॒स्य॒ । नम᳚सा । सहः᳚ । स॒प॒र्यन्ति᳚ । प्र॑चे᳚तसः ।
व्र॒तानि᳚ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि᳚ । पू॒र्व॑चि᳚त्तये । वस्वीः᳚ । अनु᳚ । स्व॒॑राज्य᳚म् ॥
व्र॒तानि᳚ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि᳚ । पू॒र्व॑चि᳚त्तये । वस्वीः᳚ । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
प्रचेतसः प्रकृष्टज्ञानास्ता गावोऽस्येंद्रस्य सहो बलं नमसा स्वकीयेन पयोरूपेणान्नेन सपर्यंति । परिचरंति । पुरूणि बहून्यस्येंद्रस्य व्रतानि । शत्रुवधादिरूपाणि वीर्यकर्माणि सश्चिरे । सेविरे । ज्ञायंत इत्यर्थः । किमर्थम् । पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय । अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्छिः प्राणास्त्यज्यंत इति तेषां बोधनायेत्यर्थः । अन्यत् पूर्ववत् ॥ सश्चिरे । सश्च गतौ । व्यत्ययेनात्मनेपदम् । चिती संज्ञाने । भावे क्तिन् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं ॥ १२ ॥