श्रवणम्

1.84.6 समानपद
नकि॒ष्ट्वद्र॒थीत᳚रो॒ हरी॒ यदि᳚न्द्र॒ यच्छ᳚से ।
नकि॒ष्ट्वानु᳚ म॒ज्मना॒ नकि॒ः स्वश्व᳚ आनशे ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । त्वत् । र॒थि॑त᳚रः । हरी᳚ । यत् । इ॒न्द्र॒ । यच्छ᳚से ।
नकिः᳚ । त्वा॒ । अनु᳚ । म॒ज्मना᳚ । नकिः᳚ । सु॒॑अश्वः᳚ । आ॒न॒शे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यद्यस्मात्त्वं हरी एतत्संज्ञावश्वौ यच्छसे रथे योजयसि तस्मात्त्वत्तोऽन्यः कश्चिद्रथीतरोऽतिशयेन रथवान् नकिः । नास्ति । अन्येषामीदृगश्वयुक्तरथाभावात् । त्वा त्वामनुलक्ष्य मज्मना । बलनामैतत् । बलेन सदृशोऽपि नकिः । न ह्यस्ति । स्वश्वः शोभनाश्वोऽन्यश्च । त्वां नकिरानशे । न प्राप । इंद्रस्य बलाश्चयोरसाधारणत्वादिंद्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः ॥ नकिष्ट्वत् युष्मत्तत्ततक्षुःष्वंतःपादमिति षत्वम् । रथीतरः । अतिशयेन रथी । तरपीद्रथिनः । पा ८-२-८७-१ । इती कारांतादेशः । अवग्रहसमये छांदसं ह्रस्वत्वम् । यच्छसे । यमेर्व्यत्ययेनात्मनेपदम् । स्वश्वः । बहुव्रीहावाद्युदात्तम् । द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । आनशे । अश्नोतेश्चेत्यभ्यासादुत्तरस्य नुट् ॥ ६ ॥