श्रवणम्

1.84.2
इन्द्र॒मिद्धरी᳚ वह॒तो॑प्र᳚तिधृष्टशवसम् ।
ऋषी᳚णां च स्तु॒तीरुप᳚ य॒ज्ञं च॒ मानु᳚षाणाम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । इत् । हरी᳚ । व॒ह॒तः॒ । अप्र᳚तिधृष्ट॑शवसम् ।
ऋषी᳚णाम् । च॒ । स्तु॒तीः । उप᳚ । य॒ज्ञम् । च॒ । मानु᳚षाणाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्रतिधृष्टशवसं केनाप्यप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः । इंद्रमिदिंद्रमेव ऋषीणां वसिष्ठादीनां मानुषाणामन्येषां मनुष्याणां च स्तुतीर्यज्ञं च हरी अश्वावुप वहतः । समीपं प्रापयतः । यत्र यत्र स्तुवंति यत्र यत्र यजंते तत्र सर्वत्रेंद्रमश्वौ प्रापयत इत्यर्थः ॥ मानुषाणाम् । मनोर्जाताविति मनुशब्धादञ् षुगागमश्च ॥ २ ॥