श्रवणम्

10.20.1
भ॒द्रं नो॒ अपि᳚ वातय॒ मनः᳚ ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम् । नः॒ । अपि᳚ । वा॒त॒य॒ । मनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं नोस्माकं मनः भद्रं शुभयुक्तं अपिवातय अपिरत्रधात्वर्थानुवादी आगमय त्वत्संबन्धिस्तोत्रकरणे प्रेरयेत्यर्थः ॥ १ ॥