श्रवणम्

10.20.6
स हि क्षेमो᳚ ह॒विर्य॒ज्ञः श्रु॒ष्टीद᳚स्य गा॒तुरे᳚ति ।
अ॒ग्निं दे॒वा वाशी᳚मन्तम् ॥
▶ पदपाठः (Word-by-word)
सः । हि । क्षेमः᳚ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ ।
अ॒ग्निम् । दे॒वाः । वाशी᳚॑मन्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यउक्तलक्षणविशिष्टोग्निः हीत्येतदवधारणे सएवाग्निः क्षेमः कुशलहेतुः सर्वस्य परिपाल- नहेतुरित्यर्थः हविः पुरोडाशादिकं च सएव हविषः तन्निमितत्वात् यज्ञः यागोपिसएव तस्यापि तद्धेतुत्वात् । किंच श्रुष्टीत् क्षिप्रमेव अस्याग्नेः गातुर्गमनशीलः अधिष्ठात्रात्मा एति देवनामाह्वानार्थं गच्छति । गत्वा च प्रत्यागच्छन्तं वाशीमन्तं स्तुतिलक्षणया वाचो- पेतं अग्निं प्रतिदेवाः अपिगच्छन्तीतिशॆषः ॥ ६ ॥