श्रवणम्

10.20.3
यमा॒सा कृ॒पनी᳚ळं भा॒साके᳚तुं व॒र्धय᳚न्ति ।
भ्राज᳚ते॒ श्रेणि᳚दन् ॥
▶ पदपाठः (Word-by-word)
यम् । आ॒सा । कृ॒प॑नी᳚ळम् । भा॒सा॑के᳚तुम् । व॒र्धय᳚न्ति ।
भ्राज᳚ते । श्रेणि᳚॑दन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तोतारोयष्टारश्च आसा स्तुतिहविर्लक्षणेनोपासनेन यमग्निं वर्धयन्ति कीदृशं कृपनीळं कर्मस्थानं कर्माधारमित्यर्थः भासाकेतुं ज्वालालक्षणज्ञापकं दीप्तेः कर्तारं यच्छब्दश्रुतेः त- च्छब्दोध्याहार्यः सोग्निः श्रेणिदन् श्रोतृभ्योयष्टृभ्यः अभीष्टफलसमूहप्रदः शत्रुभ्योज्वालापंक्ति प्रदोवा एवंभूतः सन् भ्राजते भासते ॥ ३ ॥