श्रवणम्

10.20.9
कृ॒ष्णः श्वे॒तो᳚॑रु॒षो यामो᳚ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश᳚स्वान् ।
हिर᳚ण्यरूपं॒ जनि᳚ता जजान ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः᳚ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः᳚ । यश᳚स्वान् ।
हिर᳚ण्य॑रूपम् । जनि᳚ता । ज॒जा॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र यच्छब्दमध्याहृत्य योज्यं यामः याति गच्छत्यस्मिन्निति यामोरथः प्रजापतिना निर्मितः कीदृशः कृष्णः असितवर्णः श्वेतः सितवर्णः अरुषः आरोचमानः ब्रध्नोमहान् ऋज्रः ऋजुगामी उतापिच शोणोरक्तवर्णः यशस्वान् कीर्तिमान् यद्वा यशइति धननाम हविर्ल- क्षणेन धनेन युक्तः हिरण्यरूपं सुवर्णसदृशं तं रथं अस्याग्नेरर्थाय जनिता सर्वस्य जगतो- जनयिता प्रजापतिः जजान जनयामास अस्मै दत्तवानित्यर्थः । कथमेकस्यैव रथस्य कृष्णा दिनानारूपत्वं संभवतीति चेत् अग्नेः सामर्थ्यातिशयेन संभवतीत्यर्थः । यद्वा हिरण्यरूपमिति रथवाचिना शब्देन सह सामानाधिकरण्यात् कृष्णादिशब्दाः द्वितीयान्तत्वेन योज्याः अत्र सर्वगुणोक्तरथवत्तयाग्निः स्तूयतइत्यर्थः ॥ ९ ॥