श्रवणम्

10.20.4
अ॒र्यो वि॒शां गा॒तुरे᳚ति॒ प्र यदान᳚ड्दि॒वो अन्ता᳚न् ।
क॒विर॒भ्रं दीद्या᳚नः ॥
▶ पदपाठः (Word-by-word)
अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन᳚ट् । दि॒वः । अन्ता᳚न् ।
क॒विः । अ॒भ्रम् । दीद्या᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विशां यजमानमनुष्याणांअर्योगन्तव्यः गातुर्गमनशीलोग्निर्दीद्यानोदीप्यमानः यद्यदा एति ऊर्ध्वं गच्छति तदा दिवोद्युलोकस्य अन्तान् पर्यन्तान् कविर्मेधावी सोग्निः प्रानट् प्रकर्षेण व्याप्नोति अभ्रं मेघोपलक्षितमन्तरिक्षं च व्याप्नोति ॥ ४ ॥