यस्य॒ धर्म॒न्त्स्व१॒᳚रेनी᳚ः सप॒र्यन्ति᳚ मा॒तुरूधः᳚ ॥
पदपाठः (Word-by-word)
यस्य᳚ । धर्म᳚न् । स्वः᳚ । एनीः᳚ । स॒प॒र्यन्ति᳚ । मा॒तुः । ऊधः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
भुजां हविर्भुजां देवानां मध्ये यविष्ठं अहन्यहनि अग्निहोत्रादिकर्मार्थं जायमानत्वादति शयेन युवानं शासा अनुशासनेन मित्रं यस्मादिदं यस्मादिदं कर्तव्यं इदं न कर्तव्यमिति सर्वमनुशास्ति तस्मात् सर्वस्य मित्रभूतमित्यर्थः । दुर्धरीतुं दुर्धरणीयं संग्रामे शत्रुभिर्दुर्नि- वारणीयं एवंभूतमग्निं ईळे स्तौमि । अपिच यस्याग्नेः धर्मन् धर्मणि अग्निहोत्रादिके कर्मणि स्वः द्युलोकमादित्यं सर्वं देवजातं वा एनीः एन्यः प्रतिगंत्र्यः आहुतयः स्तुतयश्च सपर्यन्ति परिचरन्ति सेवन्ते । यद्वा स्वः सपर्यन्तीत्यनयोः सामानाधिकरण्यं अत्र स्वरित्ययं सर्व- शब्दोनिपातः स्वः सर्वे देवाः एनीः आत्मनः प्रतिगंत्रीः आहुतीः स्तुतीश्च सपर्यन्ति सेव- न्ते उपजीवन्तीत्यर्थः । तत्रदृष्टान्तः—लुप्तोपममेतत् मातुः गोरूधः क्षीरोपसंहारस्थानं प्रति यथा वत्साउपजीवन्ति तद्वत् तमग्निमीळइति पूर्वेण संबन्धः ॥ २ ॥