श्रवणम्

1.25.10
नि ष᳚साद धृ॒तव्र᳚तो॒ वरु᳚णः प॒स्त्या॒३॒᳚स्वा ।
साम्रा᳚ज्याय सु॒क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
नि । स॒सा॒द॒ । धृ॒त॑व्र᳚तः । वरु᳚णः । प॒स्त्या᳚सु । आ ।
साम्॑रा᳚ज्याय । सु॒॑क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धृतव्रतः पूर्वोक्तो वरुणः पस्त्यासु दैवीषु प्रजास्वा नि षसाद । आगत्य निषण्णवान् । किमर्थम् । प्रजानां साम्राज्यसिद्ध्यर्थं सुक्रतुः शोभनकर्मा ॥ निषसाद । सदेरप्रतेः (पा ८-३-६६) इति षत्वम् । साम्राज्याय । सम्राजो भावः । साम्राज्यम् । गुणवचनब्राह्मणादिभ्यः (पा ५-१-१२४) इति ष्यञ् । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । सुक्रतुः । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं ॥ १७ ॥ १० ।