श्रवणम्

1.25.6
तदित्स᳚मा॒नमा᳚शाते॒ वेन᳚न्ता॒ न प्र यु᳚च्छतः ।
धृ॒तव्र᳚ताय दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । स॒मा॒नम् । आ॒शा॒ते॒ इति᳚ । वेन᳚न्ता । न । प्र । यु॒च्छ॒तः॒ ।
धृ॒त॑व्र᳚ताय । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धृतव्रतायानुष्ठितकर्मणे दाशुषे हविर्दत्तवते यजमानाय वेनंतौ कामयमानौ मित्रावरुणाविति शेषः । तावुभौ समानं साधारणं तदिदमस्माभिर्दत्तं तदेव हविराशाते । अश्नुवाते । न प्रयुच्छतः । कदाचिदपि प्रमादं न कुरुतः ॥ आशाते । अश्नोतेर्लिट द्विर्भावहलादिशेषौ । अत आदेः (पा ७-४-७२) इति नुडभावः । वेनंता । वेनतिः कांतिकर्मा । सुपां सुलुगित्याकारः । प्र युच्छतः । युच्छ प्रमादे । दाशुषे । दाशृदान इत्यस्माद्दाश्वान् साह्वानिति क्वसुप्रत्ययो निपातितः । वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ ६ ॥