सं नु वो᳚चावहै॒ पुन॒र्यतो᳚ मे॒ मध्वाभृ᳚तम् ।
होते᳚व॒ क्षद᳚से प्रि॒यम् ॥
होते᳚व॒ क्षद᳚से प्रि॒यम् ॥
पदपाठः (Word-by-word)
सम् । नु । वो॒चा॒व॒है॒ । पुनः᳚ । यतः᳚ । मे॒ । मधु᳚ । आ॑भृ᳚तम् ।
होता᳚॑इव । क्षद᳚से । प्रि॒यम् ॥
होता᳚॑इव । क्षद᳚से । प्रि॒यम् ॥
सायणभाष्यम् (Sayana Commentary)
यतो यस्मात्कारणान्मे मज्जीवनार्थं मधुरं हविराभृतं अंजःसवाख्ये कर्मणि संपादितं अतः कारणाद्धोतेव होमकर्तेव त्वमपि प्रियं हविः क्षदसे । अश्नासि । पुनर्हविःस्वीकारादूर्ध्वं तृप्तस्त्वं जीवन्नहं च नु अवश्यं सं वोचावहै । संभूय प्रियवार्तां करवावहै ॥ वोचावहै । लोडर्थे छांदसे लुङि ब्रुवो वचिः । अस्यतिवक्तीति च्लेरङादेशः । वच उमित्युमागमे गुणः । व्यत्ययेन टेरैत्वम् । यद्वा । लोट एव लुङादेशः । स्थानिवद्भावादैत्वम् । आभृतम् । हृग्रहोर्भः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १७ ॥