परा᳚ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू᳚ती॒रनु᳚ ।
इ॒च्छन्ती᳚रुरु॒चक्ष᳚सम् ॥
इ॒च्छन्ती᳚रुरु॒चक्ष᳚सम् ॥
पदपाठः (Word-by-word)
परा᳚ । मे॒ । य॒न्ति॒ । धी॒तयः᳚ । गावः᳚ । न । गव्यू᳚तीः । अनु᳚ ।
इ॒च्छन्तीः᳚ । उ॒रु॒॑चक्ष᳚सम् ॥
इ॒च्छन्तीः᳚ । उ॒रु॒॑चक्ष᳚सम् ॥
सायणभाष्यम् (Sayana Commentary)
उरुचक्षसम् । बहुभिर्द्रष्टव्यं वरुणमिच्छंतीर्मे धीतयः शुनःशेपस्य बुद्धयः परा यंति । पराङ्मुखा निवृत्तिरहिता गच्छंति । तत्र दृष्टांतः । गावो न । यथा गावो गव्यूतीरनु गोष्ठान्यनुलक्ष्य गच्छंति तद्वत् ॥ गव्यूतीः । गावोऽत्र यूयंत इत्यधिकरणे क्तिन् । गोर्यूतौ छंदसि । पा ६-१-७९-२ । इत्यवादेशः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । यूतिर्यवनम् । गवां यवनमत्रेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इच्छंतीः । इषु इच्छायां लटः शतृ । तुदादिभ्यः शः । इषुगमियमां छः (पा ७-२-७७) इति छत्वम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते ॥ १६ ॥