परि॒ स्पशो॒ नि षे᳚दिरे ॥
पदपाठः (Word-by-word)
परि᳚ । स्पशः᳚ । नि । से॒दि॒रे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हिरण्ययं सुवर्णमयं द्रापिं कवचं बिभ्रद्धारयन्वरुणो निर्णिजं पुष्पं स्वशरीरं वस्त । आच्छादयति । स्पशो हिरण्यस्पर्शिनो रश्मयः परि नि षेदिरे । सर्वतो निषण्णाः ॥ बिभ्रत् । बिभर्ते शतरि नाभ्यस्ताच्चतुः (पा ७-१-७८) इति नुमभावः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । द्रापिम् । द्रा कुत्सायां गतौ । द्रापयतीषून्कुत्सितां गतीं प्रापयतीति द्रापिः कवचम् । अर्तिह्रीत्यादिना (पा ७-३-३६) पुगागमः औणादिक इप्रत्यये णिलोपः । हिरण्ययम् । ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छंदसि (पा ६-४-१७५) इति हिरण्यशब्दाद्विकारार्थे विहितस्य मयटो मशब्दलोपो निपातितः । वस्त । वस आच्छादने । लङ्यदादित्वाच्छपो लुक् । पूर्ववदडभावः । निर्णिजम् । णिजिर् शौचपोषणयोः । स्पशः । स्पश बाधनस्पर्शनयोः । क्विप्चेति क्विप् । नि षेदिरे । षद्लृ विशरणगत्यवसादनेषु । अस्माद्गत्यर्थात्कर्मणि लिट्येत्वाभ्यासलोपौ । सदेरप्रतेरिति षत्वं ॥ १३ ॥