वेदा॒ यो वी॒नां प॒दम॒न्तरि᳚क्षेण॒ पत᳚ताम् ।
वेद᳚ ना॒वः स᳚मु॒द्रियः᳚ ॥
वेद᳚ ना॒वः स᳚मु॒द्रियः᳚ ॥
पदपाठः (Word-by-word)
वेद᳚ । यः । वी॒नाम् । प॒दम् । अ॒न्तरि᳚क्षेण । पत᳚ताम् ।
वेद᳚ । ना॒वः । स॒मु॒द्रियः᳚ ॥
वेद᳚ । ना॒वः । स॒मु॒द्रियः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अंतरिक्षेण पततामाकाशमार्गेण गच्छतां वीनां पक्षिणां पदं यो वरुणो वेद । तथा समुद्रियः समुद्रेऽवस्थितो वरुणो नावो जले गच्छंत्याः पदं वेद जानाति सोऽस्मान्बंधनान्मोचयत्विति शेषः । वेद । विद ज्ञाने । विदो लटो वा (पा ३-४-८३) इति तिपो णल् । लित्सर्वेणाद्युदात्तत्वम् । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । वीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । पतताम् । शपः । पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः । नावः । सावेकाच इति षष्ठ्या उदात्तत्वम् । समुद्रियः । भवार्थे समुद्राभ्राद्घः (पा ४-४-११८) इति घप्रत्ययः ॥ ७ ॥