श्रवणम्

1.25.4
परा॒ हि मे॒ विम᳚न्यव॒ः पत᳚न्ति॒ वस्य᳚इष्टये ।
वयो॒ न व᳚स॒तीरुप᳚ ॥
▶ पदपाठः (Word-by-word)
परा᳚ । हि । मे॒ । वि॑म᳚न्यवः । पत᳚न्ति । वस्यः᳚॑इष्टये ।
वयः᳚ । न । व॒स॒तीः । उप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुण मे मम शुनःशेपस्य विमन्यवः क्रोधरहिता बुद्धयो वस्यइष्टये वसीयसोऽतिशयेन वसुमतो जीवनस्य प्राप्तये परा पतंति । पराङ्मुखाः पुनरावृत्तिरहिताः प्रसरंति । हिशब्दोऽस्मिन्नर्थे सर्वजनप्रसिद्धिमाह । परापतने दृष्टांतः । वयो न । पक्षिणो यथा वसतीर्निवासस्थानान्युप सामीप्येन प्राप्नुवंति तद्वत् ॥ पतंति । पादादित्वान्निघाताभावः वस्य इष्टये वसुमच्छब्दाद्विन्मतोर्लुगिति मतुपो लुकि टलोप ईयसुनो यकारलोपश्छांदसः । वसतीः । शतुरनुम इति ङीप उदात्तत्वं ॥ ४ ॥