श्रवणम्

1.25.2
मा नो᳚ व॒धाय᳚ ह॒त्नवे᳚ जिहीळा॒नस्य᳚ रीरधः ।
मा हृ᳚णा॒नस्य᳚ म॒न्यवे᳚ ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । व॒धाय᳚ । ह॒त्नवे᳚ । जि॒ही॒ळा॒नस्य᳚ । री॒र॒धः॒ ।
मा । हृ॒णा॒नस्य᳚ । म॒न्यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुण जिहीळानस्यानादरं कृतवतो हत्नवे हंतुः पापिहननशीलस्य तव संबंधिने त्वत्कर्तृकाय वधाय नोऽस्मान्मा रीरधः । संसिद्धान्विषयभूतान्मा कुरु हृणानस्य हृणीयमानस्य क्रुद्धस्य तव मन्यवे क्रोधाय मा अस्मान् रीरधः ॥ वधाय । हनश्च वधः (पा ३-३-७६) इत्यबंतो वधशब्धः । उंछादिषु पाठादंतोदात्तः । हत्नवे । हन हिंसागत्योः । कृहनिभ्यां क्नुः (उ ३-३०) इति क्नुप्रत्ययः । धातोर्नकारस्य शकारः । जिहीळानस्य । हेडृ अनादरे । अस्माल्लिटः कानच् । द्विर्भावहलादिशेषह्रस्वचुत्वजश्त्वानि । एकारस्य ईकारादेशश्छांदसः । चित इत्यंतोदात्तत्वम् । रीरधः । राध साध संसिद्धौ । चङि णिलोप उपधाह्रस्वत्वम् । द्विर्वचन हलादिशेषः । ह्रस्वत्वसन्वद्भावेत्याभ्यासदीर्घाः । न माङ्योग इत्यडभावः । हृणानस्य । हृणीङ् लज्जायाम् । अस्माच्छानचि पृषोदरादित्वादभिमतरूपसिद्धिः ॥ २ ॥