श्रवणम्

1.25.5
क॒दा क्ष᳚त्र॒श्रियं॒ नर॒मा वरु᳚णं करामहे ।
मृ॒ळी॒कायो᳚रु॒चक्ष᳚सम् ॥
▶ पदपाठः (Word-by-word)
क॒दा । क्ष॒त्र॒॑श्रिय᳚म् । नर᳚म् । आ । वरु᳚णम् । क॒रा॒म॒हे॒ ।
मृ॒ळी॒काय᳚ । उ॒रु॒॑चक्ष᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मृळीकायास्मत्सुखाय वरुणं कदा कस्मिन्काल आ करामहे । अस्मिन्कर्मण्यागतं करवाम । कीदृशम् । क्षत्रश्रियम् । बलसेविनं नरं नेतारं उरुचक्षसं बहूनां द्रष्टारं ॥ क्षत्रश्रियम् । क्षत्राणि श्रयतीति क्षत्रश्रीः । क्विप् । वचीत्यादिना । पा ३-२-१७८-२ । क्विप् दीर्घश्च । कृदुत्तरपदपकृतिस्वरत्वम् । नरम् । ऋदोरबित्यबंत आद्युदात्तः । करामहे । करोतेर्व्यत्ययेन शप् । उरुचक्षसम् । चक्षेर्बहुलं शिच्च (उ ४-२३२) इत्यसुन् । शिद्वद्भावात्ख्याङादेशाभावः ॥ १६ ॥ ५ ॥