उदु᳚त्त॒मं मु᳚मुग्धि नो॒ वि पाशं᳚ मध्य॒मं चृ᳚त ।
अवा᳚ध॒मानि᳚ जी॒वसे᳚ ॥
अवा᳚ध॒मानि᳚ जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
उत् । उ॒त्॑त॒मम् । मु॒मु॒ग्धि॒ । नः॒ । वि । पाश᳚म् । म॒ध्य॒मम् । चृ॒त॒ ।
अव᳚ । अ॒ध॒मानि᳚ । जी॒वसे᳚ ॥
अव᳚ । अ॒ध॒मानि᳚ । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
नोऽस्माकमुत्तमं शिरोगतं पाशमुन्मुमुग्धि । उत्कृष्य मोचय । मध्यममुदरगतं पाशं विचृत । वियुज्य नाशय । जीवसे जेवितुमधमानि मदीयान्पादगतान्पाशानव चृत । अवकृष्य नाशय ॥ उत्तमम् । उंछादिषु पाठादंतोदात्तत्वम् । मुमुग्धि । मुच्लृ मोक्षणे । बहुलं छंदसीति विकरणस्य श्लुः । द्विर्भावः । हलादिशेषः । हुझल्भ्यो हेर्धिः (पा ६-४-१०१) इति हेर्धिरादेशः । तिङ्ङतिङ इति निघातः । चृत चृती हिंसाग्रंथनयोः । लोटो हि । तुदादिभ्यः शः । अतो हेरिति हेर्लुक् । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसेप्रत्ययः । प्रत्ययस्वरः ॥ १९ ॥ २१ ॥